text
stringlengths
0
1.67M
इदं मृणालद् अपि कोमलं वपुस् प्न्च्_७।५०अ
तथैव रथमारुह्य नाप्सु चर्या विधीयते ॥ १४.५०.३०
राजानमाप्याययन्ति तद्यन्मदन्तीरुपस्पृश्य राजानमाप्याययन्ति वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसामेति तस्मान्मदन्तीरुपस्पृश्य राजानमाप्याययन्ति॥
भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः ॥ कूर्म्प्_१,१४।८५ ॥
घ्राणेंद्रियं पार्थिवं गन्धेतराव्यञ्जकत्वेसति गन्धव्यञ्जकत्वेसति द्रव्यत्वात्
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् 006c
तदन्ते पालिकादीनि धारयेच्छिवभक्तकान् ॥ ३७ ॥
कञ्चित् प्रकारं प्राप्तः इत्थम्भूतः। तस्य लक्षणम् इत्थम्भूतलक्षणम्। ततस् तृतीया विभक्तिर् भवति। अपि भवान् कमण्डलुना छात्रमद्राक्षीत्? छात्रेणोपाध्यायम्। शिखया परिव्राजकम्। इह न भवति, कमण्ड्लुपानिश्छात्रः इति, लक्षणस्य समासे ऽन्तर्भूतत्वात्। इत्थम्भूतः इति किम्? वृक्षं प्रति विद्योतनम्।
सदसत्त्वयोरुपपत्तिः । उभयवैलक्षण्यं तु न कथञ्चिदुपपद्यत इति । अथ बाध्यत्वमिति
SP0070232 कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ॥
भ्प्_०६।१६।०१३।२ तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम्
दुष्प्राप्येयमवाप्ता ते देवैर्गाणेश्वरी गतिः ।। ६९ ।।
द्वारोपरि विचित्रं च रम्यं वृन्दावनं वनम् ।
निर्माणकर्ता । सर्वगोचरः सर्वममताविषयावभासचैतन्यरूपः ॥ ११॥
पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।
दुर्निरीक्ष्ये दुराधारे एकवीरे नमोऽस्तु ते ॥
भ्प्_०३।३०।०३१।१ एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम्
प्रत्यन्नं च ब्रह्महत्याकोटिजं वृजिनं भवेत्
नाहं पीवान्न वैषोढा शिविका भवतो मया ।
सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ॥ ६०-९४ ॥
सुभूतिर् आह: स्वलक्षणशून्यानां भगवन् सर्वधर्माणां (प्स्प्_५:१२७) कुतः पुनः पुर्वा कोटिः प्रज्ञायते।
एव परमात्मनः उभयान् ब्रह्यादीनस्मदादींश्च प्रति सामञ्जस्यात् समीचीनत्वसम्भवादित्यर्थः ।
भ्प्_०४।२१।००१।१ मौक्तिकैः कुसुम-स्रग्भिर् दुकूलैः स्वर्ण-तोरणैः
निवाते तर्पणं योज्यं शुद्धयोर्मूर्द्धकाययोः ३
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥
तथा उपरिचरवसुचरिते- वैखानसानां वचनैर्जपहोमार्चनादिभिः । यजेद्धरि सुरपतिं भूमेर्विवरगोऽपि सन् ॥ इति
अमृतं सूक्तम् इत्यादौ $ लक्ष्यस्थम् अतिहृद्यता &
शरीरस्यानुसन्धानं कथं बाल्ये कृतस्य च ॥
ब्रह्मप्रियः ब्राह्मणसर्वमन्त्री त्वं ब्रह्मणां ब्राह्मणानां च नेता ॥ ११॥
शर्वेण पाणिग्रहणमग्निसाक्षिकमक्षतम्।
प्राप्यते चित्तभेदेन मोक्षो वाऽथ चतुष्टयात् ॥ १४७ ॥
भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु।।
निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम् ॥ भ्ञ्ज्_६।१६३ ॥
तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः ॥ 003c
ताम्रङ्कार्ष्णायसञ्चैव तैक्ष्म्याद् एवाभिजायत ।मलन्तस्याभवत् तत्र त्रपु सीसकम् एव च ॥
पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ॥ ४।३९।१३ ॥
विष्णुः शक्रोऽर्य्यमा धाता त्वष्टा पूषा तथैव च ॥ 6.40 ॥
अविम्रष्टृत्वपर्यायमकर्तृत्वं न युज्यते ॥
वैकुण्ठावाप्तिर् इति । अक्के चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेद् इति
<५।२।७> (२९।७) एकान्नत्रिंशत्स्तोमभागैः स्तोमभागिकीः ॥
किनापि कविना लिट्लकारस्य त्रिष्टुप्छन्दसि अतिसुन्दरः प्रयोगः कृतः।
**दातृगृहे मरणादौ ब्राह्मे--**
+++ title = "१३४" +++ ॥ ऋषय ऊचुः ॥ ॥ यदा दक्षेण क्रुद्धेन पुरा शप्तो हिमद्युतिः ॥ तत्सर्वं भवता प्रोक्तं सोमनाथकथानकम्॥ १ ॥ साम्प्रतं वद कामस्य यथा कुष्ठोऽभवत्पुरा ॥ येन दोषेण शापश्च केन तस्य नियोजितः ॥ २ । शिलाखण्डा च या देवी तथा सौभाग्यकूपिका ॥ यथा तत्र समुत्पन्ना तथाऽस्माकं प्रकीर्तय ॥ ३ ॥ ॥ सूत उवाच ॥ ॥ पुरासीद्ब्राह्मणो नाम हारीत इति विश्रुतः ॥ स तपस्तत्र सन्तेपे वानप्रस्थाश्रमे वसन् ॥ ४ ॥ तस्य भार्याऽभवत्साध्वी रूपौदार्यसमन्विता ॥ त्रैलोक्यसुन्दरी साक्षाल्लक्ष्मीरिव मधुद्विषः ॥ ५ ॥ ख्याता पूणकलानाम सर्वैः समुदितागुणैः ॥ तां दृष्ट्वा पद्मजोऽप्याशु कामस्य वशगोऽभवत् ॥ ६ ॥ कदाचिदपि स प्राप्तस्तस्मिन्क्षेत्रे मनोभवः ॥ सह रत्या तथा प्रीत्या कामेश्वरदिदृक्षया ॥ ७ ॥ एतस्मिन्नन्तरे सापि स्नानार्थं तत्र चागता ॥ कृत्वा वस्त्रपरित्यागं विवेश जलाशयम् ॥ ८ ॥ अथ तां कामदेवोपि समालोक्य शुभाननाम्॥ आत्मीयैरपि निर्विद्धो हृदये पुष्पसायकैः ॥ ९ ॥ ततो रतिं परित्यक्त्वा प्रीतिं च शरपीडितः॥ विजनं कञ्चिदासाद्य प्रसुप्तः स तरोरधः ॥ ६.१३४.१० ॥ गात्रैः पुलकितैः सर्वैर्निःश्वासान्निःश्वसन्मुहुः ॥ अग्निवर्णान्सुदीर्घांश्च बाष्प पूर्णविलोचनः ॥ ११ ॥ तिष्ठन्स दर्शने तस्या एकदृष्ट्या व्यलोकयत्॥ योगीव सुसमाधिस्थो ध्यायंस्तद्ब्रह्म संस्थितम् ॥ १२ ॥ सापि कामं समालोक्य सानुरागं पुरः स्थितम् ॥ जृम्भाभङ्गकृतास्यं च वेपमानशरीरकम् ॥ १३ ॥ सापि तद्बाणनिर्भिन्ना साभिलाषा बभूव ह ॥ कामं प्रति विशेषेण तस्य रूपेण मोहिता ॥ १४ ॥ अथ तस्माज्जलात्कृच्छ्राद्विनिष्क्रम्य शुचिस्मिता ॥ तीरोपान्तं समासाद्य स्थिता तद्दृष्टिगोचरे ॥ १५ ॥ ततः कामः समुत्थाय शनैस्तदन्तिकं ययौ ॥ कृताञ्जलिपुटो भूत्वा ततः प्रोवाच सादरम् ॥ १६ ॥ का त्वमत्र विशालाक्षि प्राप्ता स्नातुं जलाशये ॥ मम नाशाय चार्वङ्गि तस्माच्छृणु वचो मम ॥ १७ ॥ अहं पुष्पशरो लोके प्रसिद्धश्चारुहासिनि ॥ विडम्बनां मया नीता देवा अपि निजैः शरैः ॥ १८ ॥ मद्बाणेनाहतो रुद्रः स्वशरीरे नितम्बिनीम् ॥ अर्द्धेन धारयामास त्यक्त्वा लज्जां सुदूरतः ॥ १९ ॥ ब्रह्मा मच्छरनिर्भिन्नः स्वसुतां चकमे ततः ॥ जनयामास तान्विप्रान्वालखिल्यांस्तथाविधान् ॥ २० ॥ अहिल्यां चकमे शक्रो गौतमस्य प्रियां सतीम् ॥ मद्बाणैः पीडितोऽतीव स्वर्गादेत्य धरातलम् ॥ २१ ॥ एवं देवा अपि क्षुण्णा मच्छरैर्ये महत्तराः ॥ किं पुनर्मानवाः सुभ्रूः कृमिप्रायाः सुचञ्चलाः ॥ २२ ॥ आकीटान्तं जगत्सर्वमाब्रह्मान्तं तथैव च ॥ विडम्बनां परां प्राप्तं मच्छरैश्चारुहासिनि ॥ २३ ॥ अहं पुनस्त्वया भीरु नीतोऽवस्थामिमां शुभे ॥ २४ ॥ तस्माद्देहि महाभागे ममाद्य रतदक्षिणाम् ॥ यावन्न यान्ति सन्त्यज्य मम प्राणाः कलेवरात् ॥ ॥ २५ ॥ ॥ सूत उवाच ॥ ॥ सापि तद्वचनं श्रुत्वा पतिव्रतपरायणा ॥ हन्यमाना विशेषेण तद्बाणैर्हृदये भृशम् ॥ २६ ॥ अनभिज्ञा च सा साध्वी कामधर्मस्य केवलम् ॥ तापसैः सह संवृद्धा नान्यं जानाति किञ्चन ॥ २७ ॥ वक्तुं तद्विषये यच्च प्रोच्यते कामपीडितैः ॥ अधोमुखाऽलिखद्भूमिमङ्गुष्ठेन स्थिता चिरम् ॥ २८ ॥ एतस्मिन्नन्तरे भानुः प्राप्तश्चास्तं गिरिं प्रति ॥ विहारसमये प्राप्त आहिताग्निर्निवेशने ॥ २९ ॥ हारीतोऽपि चिरं वीक्ष्य तन्मार्गं चाकृताशनः ॥ ततः स चिन्तयामास कस्मात्सा चात्र नागता ॥ ३० ॥ स्नात्वा तीर्थवरे तस्मिन्दृष्ट्वा तां चन्द्रकूपिकाम्॥ कामेश्वरं च देवेशं कामदं सुखदं नृणाम् ॥ ३१ ॥ ततः शिष्यसमायुक्तो वीक्षमाण इतस्ततः ॥ तं देशं समनुप्राप्तो यत्र तौ द्वावपि स्थितौ ॥ ३२ ॥ आलपन्बहुधा कामो हन्यमानो निजैः शरैः ॥ सापि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥ ३३ ॥ स गुल्मान्तरितः सर्वं तच्छ्रुत्वा कामजल्पितम् ॥ तस्याश्च तद्गतं भावं ततः कोपादुवाच सः ॥ ३४ ॥ यस्मात्पाप त्वया पत्नी ममैवं शरपीडिता ॥ अनभिज्ञा तथा साध्वी पतिधर्मपरायणा ॥ कुष्ठव्याधिसमायुक्तस्तस्माद्विप्रियदर्शनः ॥ ३५ ॥ त्वं भविष्यसि पापात्मन्मुक्तो दारैः स्वकैरपि ॥ साऽपि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥ ३६ ॥ एषापि च शिलाप्राया भविष्यति विचेतना ॥ त्वां दृष्ट्वा या सरागाऽभून्निजधर्मबहिष्कृता ॥ ३७ ॥ ततः प्रसादयामास तं कामः प्रणिपत्य च ॥ न ज्ञातेयं मया विप्र तव भार्येति सुन्दरी ॥ ३८ ॥ तेन प्रोक्ता विरुद्धानि वाक्यानि विविधानि च ॥ एतस्या नास्ति दोषोऽत्र मद्बाणैः पीडिता भृशम् ॥ ३९ सानुरागा परं जाता नोक्तं किञ्चिद्वचो मुने ॥ तस्मान्नार्हसि शापं त्वं दातुमस्याः कथञ्चन ॥ ४० ॥ ममास्त्येषो ऽपराधोऽत्र तस्मान्मे निग्रहं कुरु ॥ भूयोऽपि ब्राह्मणश्रेष्ठ अस्याः शापसमुद्भवम् ॥ ४१ ॥ अपि रुद्रादयो देवा मद्बाणेभ्यो द्विजोत्तम ॥ सोढुं शक्ता न ते यस्मात्तत्कथं स्यादियं शिला ॥ ४२ ॥ तथात्र त्रिविधं पापं प्रवदन्ति मनीषिणः ॥ मानसं वाचिकं चैव कर्मजं च तृतीयकम्॥ तदस्माकं द्विधा जातमेकं चास्या मुनीश्वर । ४३ ॥ भार्यायास्ते सुरूपायास्तस्मात्सम्पूर्णनिग्रहम् ॥ करिष्यसि न ते भीतिः काचिदस्ति परत्रजा ॥ ॥ ४४ ॥ मनस्तापाद्व्रजेत्पापं मानसं वाचिकं च यत् ॥ तस्य प्रसादनेनैव यस्योपरि विजल्पितम् ॥ ४५ ॥ प्रायश्चित्तैर्यथोक्तैश्च कर्मजं पातकं व्रजेत् । धर्मशास्त्रैः परिप्रोक्तं यतः सर्वैर्महामुने ॥ ४६ ॥ ॥ हारीत उवाच ॥ ॥ अन्यत्र विषये तस्याः पातकं कामदेवते ॥ एतस्य तव धर्मस्य प्राधान्यं मनसः स्मृतम् ॥ ४७ ॥ तस्मादेवंविधा चेयं सदा स्थास्यति चाधम ॥ किं पुनः कुरु यत्कृत्यं नाहं वक्ष्यामि किञ्चन ॥ ४८ ॥ प्रथमं मनसा सर्वं चिन्त्यते तदनन्तरम् ॥ ततः प्रजल्पते वाचा क्रियते कर्मणा ततः ॥ ४९ ॥ प्रमाणं हि मनस्तस्मात्सर्वकृत्येषु सर्वदा ॥ एतस्मात्कारणात्पूर्णो मयाऽस्या निग्रहः कृतः ॥ ५० ॥ ॥ सूत उवाच ॥ ॥ एवमुक्त्वा मुनिश्रेष्ठो हारीतः स्वाश्रमं ययौ ॥ सापि पूर्णकला जाता शिलारूपा च तत्क्षणात् ॥ ५१ ॥ कामदेवोऽपि कुष्ठेन ग्रस्तो रौद्रेण च द्विजाः ॥ शीर्णनासाङ्घ्रिपाणिश्च नेत्राणामप्रियोऽभवत्॥ ५२ ॥ अथ कामे निरुत्साहे सञ्जाते द्विजसत्तमाः ॥ व्याधिग्रस्ते जगत्यस्मिन्सृष्टिरोधो व्यजायत ॥५३॥ केवलं क्षीयते लोको नैव वृद्धिं प्रगच्छति ॥ स्वेदजा येऽपि जीवाः स्युस्तेपि याताः परिक्षयम् ॥ ५४ ॥ एतस्मिन्नन्तरे देवाः सर्वे चिन्तासमाकुलाः ॥ किमिदं क्षीयते लोको जलस्थैः स्थलजैः सह ॥५५॥ न दृश्यते क्वचिद्बालः कोऽपि कश्चित्कथञ्चन ॥ न च गर्भवती नारी कच्चित्क्षेमं स्मरस्य च ॥ ॥५६॥ ततस्तं व्याधिना ग्रस्तं ज्ञात्वात्र क्षेत्रसंश्रयम् ॥ आजग्मुस्त्वरिताः सर्वे व्याकुलेनान्तरात्मना॥५७॥ कामेश्वरपुरस्थं च तं दृष्ट्वा कुसुमायुधम्॥ अत्यन्तविकृताकारं चिन्तयानं महेश्वरम् ॥ ५८ ॥ ततः प्रोचुः सुदुःखार्ताः किमिदं कुसुमायुध ॥ निरुत्साहः समुत्पन्नः कुष्ठव्याधिसमाकुलः ॥५९॥ ततश्चाधोमुखो जातो लज्जया परया वृतः ॥ प्रोवाच शापजं सर्वं हारीतस्य विचेष्टितम् ॥ ६.१३४.६० ॥ ततस्ते विबुधाः प्रोचुः पातकं यद्गिरा कृतम् ॥३ तत्तस्याराधनात्सर्वं सङ्क्षयं यात्यसंशयम् ॥ ६१ ॥ तस्मादेतां शिलारूपां त्वमाराधय चित्तज ॥ येन कुष्ठः क्षयं याति ततस्तेजोऽभिवर्धते ॥ ६२ ॥ जगति स्यान्महासृष्टिर्देवकृत्यं कृतं भवेत् ॥ न तेऽस्ति कायजं पापं यतो मुक्त्वा प्रवाचिकम् ॥ ६३ ॥ अत्र कुण्डे त्वदीयेऽन्यो यः स्नात्वा श्रद्धयान्वितः ॥ एनां पापविनिर्मुक्तां शिलां वै मानवः स्पृशेत् ॥ ६४ ॥ कुष्ठव्याधिसमोपेतः कायोत्थेनापि कर्मणा ॥ सोऽपि व्याधिविनिर्मुक्तो भविष्यति गतज्वरः ॥ ६५ ॥ एतत्सौभाग्यकूपं च लोके ख्यातं जलाशयम् ॥ भविष्यति न सन्देहः सर्वरोगक्षयावहम् ॥ ६६ ॥ दद्रूणि दुर्विभूतानि तथान्याश्च विचर्चिकाः ॥ अत्र स्नातस्य यास्यन्ति दृष्ट्वैतां सद्य एव हि ॥ ६७ ॥ एवमुक्त्वाथ ते देवाः प्रजग्मुस्त्रिदशालयम् ॥ कामदेवोऽपि तत्रस्थस्तस्याः पूजामथ व्यधात् ॥ ६८ ॥ ततश्च समतिक्रान्ते मासमात्रे द्विजोत्तमाः ॥ तादृग्रूपः स सञ्जातो यादृगासीत्पुरा स्मरः ॥ ६९ ॥ ततश्चायतनं तस्याः कृत्वा श्रद्धासमन्वितः ॥ जगाम वाञ्छितं देशं सृष्ट्यर्थं यत्नमास्थितः ॥ ६.१३४.७० ॥ सापि नम्रमुखी तादृक्तेन शप्ता तथैव च ॥ सञ्जाता खण्डकाकारा तेन खण्डशिला स्मृता ॥ ७१ ॥ यस्तां पूजयते भक्त्या त्रयोदश्यां तथैव च ॥ नापवादो भवेत्तस्य परदारसमुद्भवः ॥ ७२ ॥ कामिन्याश्च विशेषेण प्राहैतच्छङ्करात्मजः ॥ कार्तिकेयो द्विजश्रेष्ठाः सत्यमेतन्मयोदितम् ॥ ७३ ॥ तथा कामेश्वरं देवं कामदेवप्रतिष्ठितम् ॥ त्रयोदश्यां समाराध्य सर्वान्कामानवाप्नुयात् ॥ ७४ ॥ रतिप्रीतिसमायुक्तः स्थितस्तत्र स्मरस्तथा ॥ मूर्तो ब्राह्मणशार्दूलाः श्रेष्ठं प्रासादमाश्रितः । ७५ । विरूपो दुर्भगो यो वा त्रयोदश्यां समाहितः ॥ यस्तं कुङ्कुमजैः पुष्पैः सम्पूजयति मानवः ॥ ७६ ॥ स सौभाग्यसमायुक्तो रूपवांश्च प्रजायते ॥ या नारी पतिना त्यक्ता सपत्नीजनसंवृता ॥ ७७ ॥ तं देवं सुकलत्राढ्यं तथैव परिपूजयेत् ॥ त्रयोदश्यां द्विजश्रेष्ठाः केसरैः कुङ्कुमोद्भवैः ॥ ७८ ॥ सा सौभाग्यवती विप्रा जायते च प्रजावती ॥ धनधान्यसमृद्धा च दुःखशोकविवर्जिता ॥ दोषैः सर्वैर्विनिर्मुक्ता शंसिता धरणीतले ॥ ७९ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये खण्डशिलासौभाग्यकूपिकोत्पत्तिमाहात्म्यवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोध्यायः ॥ १३४ ॥
US-P04.004ab आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः ।
किमर्थं सा सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥ वम्प्स्म्_१९।१ ॥
घोरान्धकारगम्भीरं गुहाकूपं विलङ्घ्य च ।
एकाशीतिपदा देवी व्योमव्यापिलक्षणा शक्तिः । सा च प्रतिसर्ग-पदक्रमात्
'मुच्यते नात्र सन्देहो दृष्ट्या तु स्वात्मयोग्यये' ति च । ।
चतुर्द्दशशतं प्रादात्सहस्रेण समन्वितम् ।